Skip to content

स्वागतम्

मित्राणि,

इयं संस्कृतगङ्गा पुरा कदाचित् इह भारते अजस्रं प्रवहन्ती पुनरपि लोकहिताय देवलोकात् अवतारणीया इति धिया एव अयं प्रयासः। इदं (सारस्वत-निकेतनम् इत्याख्यम् जालपुटं संस्कृत-प्रेमिभि: संस्कृत-प्रेम्णा संस्कृत-प्रेमिणां कृते निर्मितम्। अत: यदि भवति संस्कृत-प्रेम अस्ति तर्हि इदं भवत: कृते एव। संस्कृत-प्रेम-मात्रम् अपेक्षते न तु पाण्डित्यं । आयान्तु, वत्सा: इव संस्कृतकपिलां प्रति पुनरपि उन्मुखा: भवाम। तदैव वयं भारतीया: संस्कृत-मातु: दिव्येन पयसा पुन: पुष्टा: भारतं परम-वैभवं प्रापयन्त: विश्व-कल्याणं साधयिष्याम:। जालपुटेऽस्मिन् सर्वे संस्कृत-प्रेमिण: एकत्रीभविष्यन्ति। संस्कृत-गीतानि, संस्कृत-नाटकानि, संस्कृत-साहित्यं, चर्चा:,संस्कृत-लेखनं, पठनं, तथा च यद् यद् वयं चिन्तयितुं शक्नुम: तत् तद् अत्र मिलित्वा कर्तुं शक्येत इति एव अस्माकं दृष्टि: अस्ति। सर्वेऽपि अस्य जालपुटस्य माध्यमेन सोत्साहं संस्कृत-संवर्धनाय कार्यरता: भविष्यन्ति इति विश्वासेन इदम् आह्नवानम्। सारस्वत-निकेतनम् इत्यस्यान्तर्गतविविधजालपुटानाम् अन्वितिः अस्ति। प्रकारान्तरेण इदं सारस्वत-निकेतनम् इत्याख्यं जालपुटं केन्द्रीयजालपुटरूपे विद्यते। येषाम् अन्वितिः संजाता ते सन्ति- संस्कृतम् (ब्लाग) http://sanskritam.ning.com/ (This site is under shifting process), जाह्नवी (Sanskrit Online Journal) http://www.jahnavisanskritejournal.com , अभिव्यक्ति मंजरी (गूगलसमूहरूपे), अपन श्रोत्रियसमाज (भारतीय संस्कृतिद्योतकः)।

————————————————————————————————-
Dear friends,
Passing through the transition time phase our India needs that the vacuum between our traditional root value, heritage and modern young generation must be covered. Sarsvat-Niketanam (Home of Sanskrit and Sanskriti lovers) is oriented to connect our new generation with this divine language (Sanskrit) which is the base of our root, identity & originality. To change public negative mindset towards of Sanskrit and to provide platform to creative thought and analysis related with Sanskrit on internet are our main priorities. For successful journey this mission expects a support of Sanskrit and Sanskriti lovers like you.

Advertisements